सौन्दर्य लहरी / पृष्ठ - ४

Aadi SankaracharyaAadi Sankaracharya

3 min read · 12.6K reads

सौन्दर्य लहरी / पृष्ठ - ४
चतुःषष्ट्या तन्त्रैः सकलमतिसन्धाय भुवनं
स्थितः तत्तत्सिद्धि प्रसव परतन्त्रैः पशुपतिः ।
पुनस्त्वन्निर्बन्धादखिल पुरुषार्थैक घटना-
स्वतन्त्रंते तंत्रं क्षितितल मवातीतरदिदम् ॥३१॥

शिवः शक्तिः कामः क्षिति रथ रविः शीतकिरण
स्मरो हंसः शक्र स्तदनु च परा मार हरयः ॥
अमी हृल्लेखा भिस्तिसृभिरवसानेषु घटिता ।
भजन्ते वर्णास्ते तव जननि नामावयवताम् ॥३२॥

स्मरं योनिं लक्ष्मीं त्रितयमिदमादौ तव मनो-
र्निधायैके नित्ये निरवधि महा भोग रसिकाः ॥
भजन्ति त्वां चिन्तामणि गुण निबद्धा क्षवलयाः ।
शिवाऽग्नौ जुह्वन्तः सुरभिघृतधाराऽऽहुतिशतैः॥३३॥

शरीरं त्वं शंभोः शशिमिहिरवक्षोरुह युगम् ।
तवात्मानं मन्ये भगवतिनवात्मान मनघं ॥
अतः शेषः शेषीत्ययमुभय साधारणतया ।
स्थितः संबन्धोवां समरस परानन्दपरयोः ॥३४॥

मनस्त्वं व्योमत्वं मरुदसि मरुत्सारथिरसि ।
त्वमापस्त्वं भूमिस्त्वयि परिणतायां न हि परम् ॥
त्वमेव स्वात्मानं परिणमयितुं विश्ववपुषा ।
चिदानन्दाकारं शिवयुवति भावेन बिभृषे ॥३५॥

तवाज्ञा चक्रस्थं तपनशशि कोटि द्युतिधरं ।
परं शंभुं वन्दे परिमिलित पार्श्वं परचिता ॥
यमाराध्यन् भक्त्या रविशशिशुचीनामविषये ।
निरातंके लोको निवसतिहि भालोकभवने ॥३६॥

विशुद्धौ ते शुद्ध स्फटिक विशदं व्योमजनकम् ।
शिवं सेवेदेवीमपि शिव समान व्यवसिताम् ॥
ययोः कान्त्या यान्त्या शशिकिरण सारूप्य सरणिं ।
विधुतान्तर्ध्वान्ता विलसति चकोरीव जगती ॥३७॥

समुन्मीलत्संवित् कमलमकरन्दैकरसिकं ।
भजे हंसद्वन्द्वं किमपि महतां मानसचरम् ॥
यदालापादष्टादशगुणितविद्यापरिणति-
र्यदादत्ते दोषाद्गुणमखियमद्भयः पय इव ॥३८॥

तव स्वाधिष्टाने हुतवहमधिष्ठाय निरतम् ।
तमीडे संवर्तं जननि महतीं तांचसमयाम् ॥
यदालोके लोकान्दहति महति क्रोध कलिते ।
दयार्द्रा यद्दृष्टिः शिशिरमुपचारं रचयति ॥३९॥

तडित्वन्तं शक्त्या तिमिर परिपन्थिस्फुरणया ।
स्फुरन्नानारत्नाभरण परिणद्धेन्द्रधनुषम् ॥
तव श्यामंमेघं कमपि मणिपूरैक शरणम् ।
निषेवे वर्षन्तं हरमिहिर तप्तम् त्रिभुवनम् ॥४०॥

Aadi Sankaracharya
About the poet

Aadi Sankaracharya

आदि शंकराचार्य (५०८ ईसा पूर्व) भारत के एक महान दार्शनिक एवं धर्मप्रवर्तक थे। उन्होने अद्वैत वेदान्त को ठोस आधार प्रदान किया। उन्होने सनातन धर्म की विविध विचारधाराओं का एकीकरण किया। उपनिषदों और वेदांतसूत्रों पर लिखी हुई इनकी टीकाएँ बहुत प्रसिद्ध हैं। इन्होंने…

View profile & all 16 Poems / Stories

More Poetry & Stories You May Like