उपदेशसाहस्री / उपदेश १

Aadi SankaracharyaAadi Sankaracharya

4 min read · 13.0K reads

उपदेशसाहस्री / उपदेश १
चैतन्यं सर्वगं सर्वं सर्वभूतगुहाशयम्।
यत् सर्वविषयातीतं तस्मै सर्वविदे नमः॥

समापय्य क्रियाः सर्वा दाराग्न्याधानपूर्विकाः।
ब्रह्मविद्यामथेदानीं वक्तुं वेदः प्रचक्रमे॥

कर्माणि देहयोगार्थं देहयोगे प्रियाप्रिये।
ध्रुवे स्यातां ततो रागो द्वेषश्चैव ततः क्रियाः॥

धर्माधार्मौ ततोऽज्ञास्य देहयोगस्तथा पुनः।
एवं नित्यप्रवृत्तोऽयं संसारश्चक्रवद् भृशम्॥

अज्ञानं तस्य मूलं स्यादिति तद्धानमिष्यते।
ब्रह्मविद्यात आरब्धा ततो निःश्रेयसं भवेत्॥

विद्यैवाज्ञानहानाय न कर्माप्रतिकूलतः।
नाज्ञानस्याप्रहाणे हि रागद्वेषक्षयो भवेत्॥

रागद्वेषक्षयाभावे कर्म दोषद्भवं ध्रुवम्।
तस्मान् निःश्रेयसार्थाय विद्यैवात्र विधीयते॥

ननु कर्म तथा नित्यं कर्तव्यं जीवने सति।
विद्यायाः सहकारित्वं मोक्षं प्रति हि तद् व्रजेत्॥

यथा विद्या तथा कर्म चोदितत्वाविशेषतः।
प्रत्यवायस्मृतेश्चैव कार्यं कर्म मुमुक्षुभिः॥

ननु ध्रुवफला विद्या नान्यत् किंचिदपेक्षते।
नाग्निष्टोमो यथैवान्यद् ध्रुवकार्योऽप्यपेक्षते॥

तथा ध्रुवफला विद्या कर्म नित्यमपेक्षते।
इत्येवं केचिदिच्छन्ति न कर्म प्रतिकूलतः॥

विद्यायाः प्रतिकूलं हि कर्म स्यात् साभिमानतः।
निर्विकारात्मबुद्धिश्च विद्येतीह प्रकीतिता॥

अहं कर्ता ममेदं स्यादिति कर्म प्रवर्तते।
वस्त्वधीना भवेद् विद्या कर्तधीनो भवेद् विधिः॥

कारकाण्युपमृद्नाति विद्याऽब्बुद्धिमिवोषरे।
तत्सत्यमतिमादाय कर्म कर्तुं व्यवस्यति॥

विरुद्धत्वादतः शक्यं कर्म कर्तुं न विद्यया।
सहैवं विदुषा तस्मात् कर्म हेयं मुमुक्षुना॥

देहाद्यैरविशेषेण देहिनो ग्रहणं निजम्।
प्राणिनां तदविद्योत्थं तावत् कर्मविधिर्भवेत्॥

नेति नेतीति देहादीनपोह्यात्मावशेषितः।
अविशेषात्मबोधार्थं तेनाविद्या निवर्तिता॥

निवृत्ता सा कथं भूयः प्रसूयेत प्रमाणतः।
असत्येवाविशेषे हि प्रत्यगात्मनि केवले॥

न चेद् भूयः प्रसूयेत कर्ता भोक्तेति धीः कथम्।
सदस्मीति च विज्ञाने तस्माद् विद्यासहायिका॥

अत्यरेचयदित्युक्तो न्यासः श्रुत्यात एव हि।
कर्मभ्यो मानसान्तेभ्य एतावदिति वाजिनाम्॥

अमृतत्वं श्रुतं तस्मात् त्याज्यं कर्म मुमुक्षुभिः।
अग्निष्टोमवदित्युक्तं तत्रेदमभिधीयते॥

नैककारकसाध्यत्वात् फलान्यत्वाच् च कर्मणः।
विद्या तद्विपईतातो दृष्टान्तो विषमो भवेत्॥

कृष्यादिवत् फलार्थत्वादन्यकर्मोपबृंहणम्।
अग्निष्टोमस्त्वपेक्षेत विद्यान्यत् किमपेक्षते॥

प्रत्यवायस्तु तस्यैव यस्याहंकार इष्यते।
अहंकारफलार्थित्वे विद्येते नात्मवेदिनः॥

तस्मादज्ञानहानाय संसारविनिवृत्तये।
ब्रह्मविद्याविधानाय प्रारब्धोपनिषत् त्वियम्॥

सदेरुपनिपूर्वस्य क्विपि चोपनिषद् भवेत्।
मन्दीकरणभावाच् च गर्भादेः शातनात् तथा॥

 

Aadi Sankaracharya
About the poet

Aadi Sankaracharya

आदि शंकराचार्य (५०८ ईसा पूर्व) भारत के एक महान दार्शनिक एवं धर्मप्रवर्तक थे। उन्होने अद्वैत वेदान्त को ठोस आधार प्रदान किया। उन्होने सनातन धर्म की विविध विचारधाराओं का एकीकरण किया। उपनिषदों और वेदांतसूत्रों पर लिखी हुई इनकी टीकाएँ बहुत प्रसिद्ध हैं। इन्होंने…

View profile & all 16 Poems / Stories

More Poetry & Stories You May Like