सौन्दर्य लहरी / पृष्ठ - ३

Aadi SankaracharyaAadi Sankaracharya

3 min read · 12.7K reads

सौन्दर्य लहरी / पृष्ठ - ३
तडिल्लेखातन्वीं तपनशशि वैश्वानरमयीं ।
निषण्णांषण्णामप्युपरि कमलानां तव कलाम् ॥
महापद्माटव्यां मृदितमलमायेन मनसा ।
महान्तः पश्यन्तो दधति परमाह्लादलहरीम् ॥२१॥

भवानित्वं दासे मयि वितरदृष्टिं स करुणा-
मितिस्तोतुंवाञ्छन्कथयति भवानित्वमिति यः ।
तदैवत्वं तस्मै दिशसि निजसायुज्य पदवीम्
मुकुन्द ब्रह्मेन्द्र स्फुटमकुट नीराजितपदाम् ॥२२॥

त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा ।
शरीरार्धं शम्भो रपर मपि शङ्के हृतमभूत् ॥
यदेतत्त्वद्रूपं सकलमरुणाभंत्रिनयनम् ।
कुचाभ्या मानम्रं कुटिल शशि चूडाल मकुटम् ॥२३॥

जगत्सूते धाता हरिरवति रुद्रः क्षपयते ।
तिरस्कुर्वन्नेतत्स्वमपि वपुरीशस्तिरयति ॥
सदापूर्वः सर्वं तदिदमनुगृह्णाति च शिव-
स्तवाज्ञामालम्ब्य क्षणचलितयोर्भ्रूलतिकयोः ॥२४॥

त्रयाणां देवानां त्रिगुणजनितानां तव शिवे ।
भवेत्पूजा पूजा तव चरणयोर्या विरचिता ॥
तथा हि त्वत्पादोद्वहनमणिपीठस्य निकटे ।
स्थिता ह्येते शश्वन् मुकुलितकरोत्तंस मकुटाः ॥२५॥

विरिञ्चिः पञ्चत्वं ब्रजति हरिराप्नोति विरतिं ।
विनाशं कीनाशो भजति धनदो याति निधनम् ॥
वितन्द्री माहेन्द्री विततिरपि संमीलति दृशां ।
महा संहारेऽस्मिन् विहरति सतित्वत्पतिरसौ ॥२६॥

जपो जल्पः शिल्पं सकलमपि मुद्राविरचना
गतिः प्रादक्षिण्यक्रमणमशनाद्याहुतिविधिः
प्रणामः संवेशः सुखमखिलमात्मार्पणदशा
सपर्यापर्यायस्तव भवतु यन्मे विलसितम् ॥२७॥

सुधामप्यास्वाद्य प्रतिभय जरा मृत्यु हरिणीं ।
विपद्यन्ते विश्वे विधिशत मखाद्यादिविषदः ॥
करालं यत्क्ष्वेलं कवलितवतः कालकलना ।
न शम्भोस्तन्मूलं तवजननि ताटङ्क महिमा ॥२८॥

किरिटं वैरिञ्चं परिहर पुरः कैटभ भिदः ।
कठोरे कोटीरे स्खलसि जहि जम्भारि मकुटम् ॥
प्रणम्रे ष्वेतेषु प्रसभमुपयातस्य भवनम् ।
भवस्याभ्युत्थाने तव परिजनोक्तिर्विजयते ॥२९॥

स्वदेहोद्भूताभिर्घृणिभिरणिमाऽद्याभिरभितो ।
निषेव्ये नित्ये त्वामहमिति सदा भावतियः ॥
किमाश्चर्यं तस्य त्रिनयन समृद्धिं तृणयतो ।
महासंवर्ताग्निर्विरचयति नीराजनविधिम् ॥३०॥

Aadi Sankaracharya
About the poet

Aadi Sankaracharya

आदि शंकराचार्य (५०८ ईसा पूर्व) भारत के एक महान दार्शनिक एवं धर्मप्रवर्तक थे। उन्होने अद्वैत वेदान्त को ठोस आधार प्रदान किया। उन्होने सनातन धर्म की विविध विचारधाराओं का एकीकरण किया। उपनिषदों और वेदांतसूत्रों पर लिखी हुई इनकी टीकाएँ बहुत प्रसिद्ध हैं। इन्होंने…

View profile & all 16 Poems / Stories

More Poetry & Stories You May Like