सौन्दर्य लहरी / पृष्ठ - २

Aadi SankaracharyaAadi Sankaracharya

3 min read · 12.8K reads

सौन्दर्य लहरी / पृष्ठ - २
चतुर्भिः श्रीकण्ठैः शिवयुवतिभिः पञ्चभिरपि
प्रभिन्नाभिः शम्भोर्नवभिरपि मूल प्रकृतिभिः
त्रयश्चत्वारिंशद् वसुदल कलाश्रत्रिवलय-
त्रिरेखाभिःसार्धंतवशरणकोणाःपरिणताः ॥११॥

त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं ।
कवीन्द्राः कल्पन्ते कथमपि विरिञ्चिप्रभ्रृतयः ॥
यदालोकौत्सुक्यादमरललना यान्ति मनसा ।
तपोभिर्दुष्प्रापामपिगिरिशसायुज्यपदवीम् ॥१२॥

नरं वर्षीयांसं नयनविरसं नर्मसु जडं ।
तवापाङ्गालोके पतितमनुधावन्ति शतशः ॥
गलद्वेणीबन्धाः कुचकलशविस्रस्तसिचया ।
हटात् त्रुट्यत्काञ्च्यो विगलितदुकूला युवतयः ॥१३॥

क्षितौ षट्पञ्चाशद्द ् विसमधिकपञ्चाशदुदके ।
हुताशेद्वाषष्टीश्चतुरधिकपञ्चाशदनिले ॥
दिविद्विः षट् त्रिंशन्मनसि च चतुःषष्टिरितिये ।
मयुखास्तेषामप्युपरि तव पादाम्बुजयुगम् ॥१४॥

शरज्ज्योत्स्नां शुभ्रां शशियुत जटाजूट मकुटां ।
वर त्रासत्राण स्फटिक घुटिका पुस्तक कराम् ॥
सकृन्न त्वां नत्वा कथमिव सतां संनिदधते ।
मधु क्षीर द्राक्षा मधुरिमधुरिणा भणितयः ॥१५॥

कविन्द्राणां चेतः कमल वनबाला तपरुचिं I
भजन्ते ये सन्तः कतिचिदरुणा मेव भवतीम् II
विरिञ्चि प्रेयस्या स्तरुणतर श्रृङ्गार लहरी ।
गभीराभिर्वाग्भिर्बिदधति सतां रन्जन्ममी II१६II

सवित्रीभिर्वाचां शशिमणि शिला भङ्गरुचिभि-
र्वशिन्याद्याभिस्त्वां सह जननि सञ्चिन्तयतियः ॥
स कर्ता काव्यानां भवति महतां भङ्गिसुभगै-
र्वचोभि र्वाग्देवी वदन कमला मोद मधुरैः ॥१७॥

तनुच्छाया भिस्ते तरुणतरणि श्रीधरणिभि-
र्दिवं सर्वामुर्वी मरुणि मनिमग्न्नां स्मरति यः ॥
भवन्त्यस्य त्रस्य द्वनहरिणशालीन नयनाः ।
सहोर्वश्यावश्याःकतिकतिनगीर्वाणगणिकाः ॥१८॥

मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तदधो ।
हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथ कलाम् ॥
स सद्यः संक्षोभं नयति बनिता इत्यतिलघु ।
त्रिलोकी मप्याशु भ्रमयति रवीन्दु स्तनयुगाम् ॥१९॥

किरन्तीमङ्गेभ्यः किरण निकुरुम्बामृतरसं ।
हृदि त्वामाधत्ते हिमकरशिलामूर्तिमिवयः ॥
स सर्पाणाँ दर्पं शमयति शकुन्ताधिप इव ।
ज्वरप्लुष्टांदृष्ट्या सुखयतिसुधाऽऽसारसिरया ॥२०॥

Aadi Sankaracharya
About the poet

Aadi Sankaracharya

आदि शंकराचार्य (५०८ ईसा पूर्व) भारत के एक महान दार्शनिक एवं धर्मप्रवर्तक थे। उन्होने अद्वैत वेदान्त को ठोस आधार प्रदान किया। उन्होने सनातन धर्म की विविध विचारधाराओं का एकीकरण किया। उपनिषदों और वेदांतसूत्रों पर लिखी हुई इनकी टीकाएँ बहुत प्रसिद्ध हैं। इन्होंने…

View profile & all 16 Poems / Stories

More Poetry & Stories You May Like