![रघुवंशम् / तृतीयः सर्गः's image](https://kavishala-ejf3d2fngme3ftfu.z03.azurefd.net/kavishalalabs/sootradhar_post/Kalidas-in-Hindi.jpg)
रघुवंशम् / तृतीयः सर्गः /
अथेप्सितं भर्तुरुपस्थितोदयं सखीजनोद्वीक्षणक्ॐउदीमुखं।
निदानं इक्ष्वाकुकुलस्य संततेः सुदक्षिणा दौर्हृदलक्षणं दधौ।। ३.१।।
शरीरसादादसमग्रभूषणा मुखेन सालक्ष्यत लोध्रपाण्डुना।
तनुप्रकाशेन विचेयतारका प्रभातकल्पा शशिनेव शर्वरी।। ३.२।।
ततो विशांपत्युरनन्यसंततेर्मनोरथं किंचिदिवोदयोन्मुखं।
अनन्यसौहार्दरसस्य दोहदं प्रिया प्रपेदे प्रकृतिप्रियंवदा।। ३.२आ।।
मुखेन सा केतकपत्त्रपाण्डुना कृशाङ्गयष्टिः परिमेयभूषणा।
स्थिताल्पतारां करुणेन्दुमण्डलां विभातकल्पां रजनीं व्यडम्बयथ्।। ३.२भ्।।
तदाननं मृत्सुरभि क्षितीश्वरो रहस्युपाघ्राय न तृप्तिं आययौ।
करीव सिक्तं पृषतैः पय्ॐउचां शुचिव्यपाये वनराजिपल्वलं।। ३.३।।
दिवं मरुत्वानिव भोक्ष्यते भुवं दिगन्तविश्रान्तरथो हि तत्सुतः।
अतोऽभिलाषे प्रथमं तथाविधे मनो बबन्धान्यरसान्विलङ्घ्य सा।। ३.४।।
न मे ह्रिया शंसति किंचिदीप्सितं स्पृहावती वस्तुषु केषु मागधी।
न हीष्टं अस्य त्रिदिवेऽपि भूपतेर्प्रियासखीरुत्तरकोसलेश्वरः।। ३.५।।
उपेत्य सा दोहददुःखशीलतां यदेव वव्रे तदपश्यदाहृतं।
न हीष्टं अस्य त्रिदिवेऽपि भूपतेरभूदनासाद्यं अधिज्यधन्वनः।। ३.६।।
क्रमेण निस्तीर्य च दोहदव्यथां प्रचीयमानावयवा रराज सा।
पुराणपत्त्रापगमादनन्तरं लतेव संनद्धमनोज्ञपल्लवा।। ३.७।।
दिनेषु गच्छत्सु नितान्तपीवरं तदीयं आनीलमुखं स्तनद्वयं।
तिरश्चकार भ्रमराभिलीनयोः सुजातयोः पङ्कजकोशयोः श्रियम्)।। ३.८।।
निधानगर्भां इव सागराम्बरां शमीं इवाभ्यन्तरलीनपावकां।
नदीं इवान्तःसलिलां सरस्वतीं नृपः ससत्त्वां महिषीं अमन्यत।। ३.९।।
प्रियानुरागस्य मनःसमुन्नतेर्भुजार्जितानां च दिगन्तसंपदां।
यथाक्रमं पुंसवनादिकाः क्रिया धृतेश्च धीरः सदृशीर्व्यधत्त सः।। ३.१०।।
सुरेन्द्रमात्राश्रितगर्भगौरवात्प्रयत्नमुक्तासनया गृहागतः।
तयोपचाराञ्जलिखिन्नहस्तया ननन्द पारिप्लवनेत्रया नृपः।। ३.११।।
कुमारभृत्याकुशलैरनुष्ठिते भिषग्भिराप्तैरथ गर्भभर्मणि।
पतिः प्रतीतः प्रसवोन्मुखीं प्रियां ददर्श काले दिवं अभ्रीतं इव।। ३.१२।।
ग्रहैस्ततः पञ्चभिरुच्चसंश्रयैरसूर्यगैः सूचितभाग्यसंपदं।
असूत पुत्रं समये शचीसमा त्रिसाधना शक्तिरिवार्थं अक्षयं।। ३.१३।।
दिशः प्रसेदुर्मरुतो ववुः सुखाः प्रदक्षिणार्चिर्हविरग्निराददे।
बभूव सर्वं शुभशंसि तत्क्षणं भवो हि लोकाभ्युदयाय तादृशां।। ३.१४।।
अरिष्टशय्यां परितो विसारिणा सुजन्मनस्तस्य निजेन तेजसा।
निशीथदीपाः सहसा हतत्विषो बभूवुरालेख्यसमर्पिता इव।। ३.१५।।
जनाय शुद्धान्तचराय शंसते कुमारजन्मामृतसंमिताक्षरं।
अदेयं आसीत्त्रयं एव भूपतेः शशिप्रभं छत्त्रं उभे च चामरे।। ३.१६।।
समीक्ष्य पुत्रस्य चिरान्मुखं पिता निधानकुम्भस्य युवेव दुर्गतः।
मुदा शरीरे प्रबभूव नात्मनः पयोधिरिन्दूदयमूर्छितो यथा।। ३.१६*।।
निवातपद्मस्तिमितेन चक्षुषा नृपस्य कान्तं पिबतः सुताननं।
महोदधेः पूर इवेन्दुदर्शनाद्गुरुः प्रहर्षः प्रबभूव नात्मनि।। ३.१७।।
स जातकर्मण्यखिले तपस्विना तपोवनादेत्य पुरोधसा कृते।
दिलीपसूनुर्मणिराकरोद्भवः प्रयुक्तसंस्कार इवाधिकं बभौ।। ३.१८।।
सुखश्रवा मङ्गलतूर्यनिस्वनाः प्रमोदनृत्यैः सह वारयोषितां।
न केवलं सद्मनि मागधीपतेः पथि व्यजृम्भन्त दिवौकसां अपि।। ३.१९।।
न संयतस्तस्य बभूव रक्षितुर्विसर्जयेद्यं सुतजन्महर्षितः।
ऋणाभिधानात्स्वयं एव केवलं तदा पितःणां मुमुचे स बन्धनाथ्।। ३.२०।।
शुतस्य यायादयं अन्तं अर्भकस्तथा परेषां युधि चेति पार्थिवः।
अवेक्ष्य धातोर्गमनार्थं अर्थविच्चकार नाम्ना रघुं आत्मसंभवं।। ३.२१।।
पितुः प्रयत्नात्स समग्रसंपदः शुभैः शरीरावयवैर्दिने दिने।
पुपोष वृद्धिं हरिदश्वदीधितेरनुप्रवेशादिव बालचन्द्रमाः।। ३.२२।।
उमावृषाङ्कौ शरजन्मना यथा यथा जयन्तेन शचीपुरंदरौ।
तथा नृपः सा चु सुतेन मागधी ननन्दतुस्तत्सदृशेन तत्समौ।। ३.२३।।
रथाङ्गनाम्नोरिव भावबन्धनं बभूव यत्प्रेम परस्पराश्रयं।
विभक्तं अप्येकसुतेन तत्तयोः परस्परस्योपरि पर्यचीयत।। ३.२४।।
उवाच धात्र्या प्रथमोदितं वचो ययौ तदीयां अवलम्ब्य चाङ्गुलिं।
अभूच्च नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन ततान सोऽर्भकः।। ३.२५।।
तं अङ्कं आरोप्य शरीरयोगजैः सुखैर्निषिञ्चन्तं इवामृतं त्वचि।
उपान्तसंमीलितलोचनो नृपश्चिरात्सुतस्पर्शरस्ज्ञतां ययौ।। ३.२६।।
तं अङ्कं आरोप्य शरीरयोगजैः स्थितेरभेत्ता स्थितिमन्तं अन्वयं।
स्वमूर्तिभेदेन गुणाग्र्यवर्तिना पतिः प्रजानां इव सर्गं आत्मनः।। ३.२७।।
स वृत्तचौलश्चलकाकपक्षकैरमात्यपुत्रैः सवयोभिरन्वितः।
लिपेर्यथावद्ग्रहणेन वाङ्मयं नदीमुखेनेव समुद्रं आविशथ्।। ३.२८।।
अथोपनीतं विधिवद्विपश्चितो विनिन्युरेनं गुरवो गुरुप्रियं।
अवन्ध्ययत्नाश्च बभूवुरर्भके ततार विद्याः पवनातिपातिभिर्।। ३.२९।।
धियः समग्रैः स गुणैरुदारधीः क्रमाच्चतस्रश्चतुरर्णवोपमाः।
ततार विद्याः पवनातिपातिभिर्दिशो हरिद्भिर्हरितां इवेश्वरः।। ३.३०।।
त्वचं स मेध्यां परिधाय रौरवीं अशिक्षतास्त्रं पितुरेव मन्त्रवथ्।
न केवलं तद्गुरुरेकपार्थिवः क्षितावभूदेकधनुर्धरोऽपि सः।। ३.३१।।
महोक्षतां वत्सतरः स्पृशन्निव द्विपेन्द्रभावं कलभः श्रयन्निव।
रघुः क्रमाद्यौवनभिन्नशैशवः पुपोष गाम्भीर्यमनोहरं वपुः।। ३.३२।।
अथास्य गोदानविधेरनन्तरं विवाहदीक्षां निरवर्तयद्गुरुः।
नरेन्द्रकन्यास्तं अवाप्य सत्पतिं तमोनुदं दक्षसुता इवाबभुः।। ३.३३।।
युवा युगव्यायतबाहुरंसलः कपाटवक्षाः परिणद्धकंधरः।
वपुःप्रकर्षादजयद्गुरुं रघुस्तथापि नीचैर्विनयाददृश्यत।। ३.३४।।
ततः प्रजानां चिरं आत्मना धृतां नितान्तगुर्वीं लघयिष्यता धुरं।
निसर्गसंस्कारविनीत इत्यसौ नृपेण चक्रे युवराजशब्दभाक्।। ३.३५।।
नरेन्द्रमूलायतनादनन्तरं घनव्यपायेन गभस्तिमानिव।
अगच्छदंशेन गुणाभिलाषिणी नवावतारं कमलादिवोत्पलं।। ३.३६।।
विभावसुः सारथिनेव वायुना घनव्यपायेन गभस्तिमानिव।
बभूव तेनातितरां सुदुःसहः कटप्रभेदेन करीव पार्थिवः।। ३.३७।।
नियुज्य तं ह्ॐअतुरंगरक्षणे धनुर्धरं राजसुतैरनुद्रुतं।
अपूर्णं एकेन शतक्रतूपमः शतं क्रतूना अपविघ्नं आप सः।। ३.३८।।
ततः परं तेन मखाय वज्वना तुरंगं उत्सृष्टं अनर्गलं पुनः।
धनुर्भृतां अग्रत एव रक्षिणां जहार शक्रः किल गूढविग्रहः।। ३.३९।।
विषादलुप्तप्रतिपत्ति विस्मितं ममैव येनेह तुरंगं ईक्षसे।
धेन्वा निशम्येति वचः समीर्तं श्रुतप्रभावा ददृशेऽथ नन्दिनी।। ३.४०।।
स्वेदाम्बुना मार्जय पुत्र लोचने ममैव येनेह तुरंगं ईक्षसे।
धेन्वा निशम्येति वचः समीरितं मुदं परां आप दिलीपनन्दनः।। ३.४०*।।
तदङ्गनिस्यन्दजलेन लोचने प्रमृज्य पुण्येन पुरस्कृतः सतां।
अतीन्द्रियेष्वप्युपपन्नदर्शनो बभूव भावेषु दिलीपनन्दनः।। ३.४१।।
स पूर्वतः पर्वतपक्षशातनं ददर्श देवं नरदेवसंभवः।
पुनः पुनः सूतनिषिद्धचापलं हरन्तं अश्वं रथरश्मिसंयतं।। ३.४२।।
स पूर्वतः पर्वतपक्षशातनं हरिं विदित्वा हरिभिश्च वाजिभिः।
अवोचदेनं गन्गस्पृशा रघुः स्वरेण धीरेण निवर्तयन्निव।। ३.४३।।
मखांशभाजां प्रथमो मनीषिभिस्त्वं एव देवेन्द्र सदा निगद्यसे।
अजस्रदीक्षाप्रयतस्य मद्गुरोः क्रियाविघाताय कथं प्रवर्तसे।। ३.४४।।
त्रिलोकनाथेन सदा मखद्विषस्त्वया नियम्या ननु दिव्यचक्षुषा।
स चेत्स्वयं करमसु धर्मचारिणां त्वं अन्तरायो भवसि च्युतो विधिः।। ३.४५।।
तदङ्गं अग्र्यं मघवन्महाक्रतोरमुं तुरंगं प्रतिमोक्तुं अर्हसि।
पतःश्रुतेर्दर्शयितार ईश्वरा मलीमसां आददते न पद्धतिं।। ३.४६।।
इति प्रगल्भं रघुणा समीरितं वचो निशम्याधिपतिर्दिवौकसां।
निवर्तयां आस रथं सविस्मयः प्रचक्रमे च प्रतिवक्तुं उत्तरं।। ३.४७।।
यदात्थ राजन्यकुमार तत्तथा यशस्तु रक्ष्यं परतो यशोधनैः।
जगत्प्रकाशं तदशेषं इज्यया भवद्गुरुर्लङ्घयितुं ममोद्यतः।। ३.४८।।
हरिर्यथैकः पुरुशोत्तमः स्मृतो महेश्वरस्त्र्यम्बक एव नापरः।
तथा विदुर्मां मुनयः शतक्रतुं द्वितीयगामी न हि शब्द एष नः।। ३.४९।।
अतोऽयं अश्वः कपिलानुकारिणा पितुस्त्वदीयस्य मयापहारितः।
अलं प्रयत्नेन तवात्र मा निधाः पदं पदव्यां सगरस्य संततेः।। ३.५०।।
ततः प्रहस्यापभयः पुरंदरं पुनर्बभाषे तुरगस्य रक्षिता।
गृहाण शस्त्रं यदि सर्ग एष ते न खल्वनिर्जित्य रघुं कृती भवान्।। ३.५१।।
स एवं उक्त्वा मघवन्तं उन्मुखः करिष्यमाणः सशरं शरासनं।
अतिष्ठदालीढविशेषशोभिना वपुःप्रकर्षेण विडम्बितेश्वरः।। ३.५२।।
रघोरवष्टम्भमयेन पत्त्रिणा हृदि क्षतो गोत्रभिदप्यमर्षणः।
नवाम्बुदानीकमुहूर्तलाञ्छने धनुष्यमोघं समधत्त सायकं।। ३.५३।।
दिलीपसूनोः स बृहद्(?) भुजान्तरं प्रविश्य भीमासुरशोणितोचितः।
पपावनास्वादितपूर्वं आशुगः कुतूहलेनेव मनुष्यशोणितं।। ३.५४।।
हरेः कुमारोऽपि कुमारविक्रमः सुरद्विपास्फालनकर्कशाङ्गुलौ।
भुजे शचीपत्त्रविशेषकाङ्किते स्वनामचिह्नं निचखान सायकं।। ३.५५।।
जहार चान्येन मयूरपत्त्रिणा शरेण शक्रस्य महाशनिध्वजं।
चुकोप तस्मै स भृशं सुरश्रियः प्रसहय केशव्यपरोपणादिव।। ३.५६।।
तयोरुपान्तस्थितसिद्धसैनिकं गरुत्मदाशीविशभीमदर्शनैः।
बभूव युद्धं तुमुउलं जयैषिणोरध्ॐउखैरूर्ध्वमुखैश्च पत्त्रिभिः।। ३.५७।।
अतिप्रबन्धप्रहितास्त्रवृष्टिभिस्तं आश्रयं दुष्प्रहस्य तेजसः।
शशाक निर्वापयितुं न वासवः स्वतश्च्युतं वह्निं इवाद्भिरम्बुदः।। ३.५८।।
ततः प्रकोष्ठे हरिचन्दनाङ्किते प्रमथ्यमानार्णवधीर।
रघुः शशाङ्कार्धमुखेन पत्त्रिणा शरासनज्यां अलुनाद्विडौजसः।। ३.५९।।
स चापं उत्सृज्य विवृद्धमत्सरः प्रणाशनाय प्रबलस्य विद्विषः।
महीध्रपक्षव्यपरोपणोचितं स्फुरत्प्रभामण्डलं अस्त्रं आददे।। ३.६०।।
रघुर्भृशं वक्षसि तेन ताडितः पपात भूमौ सह सैनिकाश्रुभिः।
निमेषमात्रादवधूय तद्व्यथां सहोत्थितः सैनिकहर्षनिस्वनैः।। ३.६१।।
तथापि शस्त्रव्यवहारनिष्ठुरे बिपक्षभावे चिरं अस्य तस्थुषः।
तुतोष वीर्यातिशयेन वृत्रहा पदं हि सर्वत्र गुणैर्निधीयते।। ३.६२।।
असङ्गं अद्रिष्वपि सारवत्तया न मे त्वदन्येन विसोढं आयुधं।
अवेहि मां प्रीतं ऋते तुरंगमात्किं इच्छसीति स्फुटं आह वासवः।। ३.६३।।
ततो निषङ्गादसमग्रं उद्धृतं सुवर्णपुङ्खद्युतिरञ्जिताङ्गुलिं।
नरेन्द्रसूनुः प्रतिसंहरन्निषुं प्रियंवदः प्रत्यवदत्सुरेश्वरं।। ३.६४।।
अमोच्यं अश्वं यदि मन्यसे प्रभो ततः समाप्ते विधिनैव कर्मणि।
अजस्रदीक्षाप्रयतः स मद्गुरुः क्रतोरशेषेण फलेन युज्यतां।। ३.६५।।
यथा च वृत्तान्तं इमं सदोगतस्त्रिलोचनैकांशतया दुरासदः।
तवैव संदेषहराद्विशंपतिः शृणोति लोकेश तथा विधीयतां।। ३.६६।।
तथेति कामं प्रतिशुश्रुवान्रघोर्यथागतं मातलिसारथिर्ययौ।
नृपस्य नातिप्रमनाः सदोगृहं सुदक्षिनासूनुरपि न्यवर्तत।। ३.६७।।
तं अभ्यनन्दत्प्रथमं प्रबोधितः प्रजेश्वरः शासनहारिणा हरेः।
परामृशन्हर्षजडेन पाणिना तदीयं अङ्गं कुलिशव्रणाङ्कितं।। ३.६८।।
इति क्षितीशो नवतिं नवाधिकां महाक्रतूनां महनीयशासनः।
समारौरुक्षुर्दिवं आयुषः क्षये ततान सोपानपरंपरां इव।। ३.६९।।
अथ स विषव्यावृत्तात्मा यथाविधि सूनवे नृपतिककुदं दत्त्वा यूने सितातपवारणं।
मुनिवनतरुच्छायां देव्या तया सह शिश्रिये गलितवयसां इक्ष्वाकूणा इदं हि कुलव्रतम्।। ३.७०।