उपदेशसाहस्री / उपदेश ९'s image
0345

उपदेशसाहस्री / उपदेश ९

ShareBookmarks

उपदेशसाहस्री / उपदेश ९
सूक्ष्मताव्यापिते ज्ञेये गन्धादेरुत्तरोत्तरम्।
प्रत्यगात्मावसानेषु पूर्वपूर्वप्रहाणतः॥

शारीरा पृथिवी तावद् यावद् बाह्या प्रमाणतः।
अबादीनि च तत्त्वानि तावज् ज्ञेयानि कृत्स्नशः॥

वाय्वादीनां यथोत्पत्तेः पूर्वं खं सर्वगं तथा।
अहमेकः सदा सर्वश्चिन्मात्रः सर्वगोऽद्वयः॥

ब्रह्माद्याः स्थावरान्ता ये प्राणिनो मम पूः स्मृताः।
कामक्रोधादयो दोषा जायेरन् मे कुतोऽन्यतः॥

भूतदोषैः सदास्पृष्टं सर्वभूतस्थमीश्वरम्।
नीलं व्योम यथा बालो दूष्टं मां वीक्षते जनः॥

मच्चैतन्यावभास्यत्वात् सर्वप्राणिधियां सदा।
पूर्मम प्राणिनः सर्वे सर्वज्ञस्य विपाप्मनः॥

जनिमज् ज्ञानविज्ञेयं स्वप्नज्ञानवदिष्यते।
नित्यं निर्विषयं ज्ञानं तस्माद् द्वैतं न विद्यते॥

ज्ञातुर्ज्ञातिर्हि नित्योक्ता सुषुप्ते त्वन्यशून्यतः।
जाग्रज्ज्ञातिस्त्वविद्यातस्तद् ग्राह्यं चासदिष्यताम्॥

रूपवत्त्वाद्यसत्त्वान् न दृष्ट्यादेः कर्मता यथा।
एवं विज्ञानकर्मत्वं भूम्नो नास्तीति गम्यते॥

Read More! Learn More!

Sootradhar