उदयति मिहिरो,विगलति तिमिरो भुवनं कथमभिरामम् प्रचरति चतुरो मधुकरनिकरो गुंजति कथमविरामम्॥ विकसति कमलं,विलसति सलिलम् पवनो वहति सलीलम् दिशिदिशि धावति,कूजति नृत्यति खगकुलमतिशयलोलम्॥ शिरसि तरूणां रविकिरणानाम् खेलति रुचिररुणाभा उपरि दलानाम् हिमकणिकानाम् कापि हृदयहरशोभा॥